उपनिषत्सु गुरुशिष्यपरम्परा

Authors

  • Dr. Palash Ghorai

DOI:

https://doi.org/10.25215/1997811227.06

Abstract

भारतीयसनातनपरम्पराया मूलं तावद् वेदः। वेदेषु मुख्या हि ज्ञानकाण्डरूपा उपनिषदः। उपनिषत्सु प्रधानविचार्यविषयो हि ब्रह्मविद्या आत्मविद्या वा। आत्मविद्या हि गुरुमुखी विद्या, गुरुमुखादेव अवगन्तव्यासौ विद्या इत्यर्थः। उपनिषत्सु आत्मविद्या गुरुशिष्यपरम्पराक्रमेण बहुत्र निगदिता। अत उपनिषदां तत्त्वज्ञानाय गुरुशिष्यपरम्परा सुतरां ज्ञातव्या। गुरुशिष्यपरम्परया अधिगता विद्या उपनिषत्सु निगदिता इति उपनिषत्स्वेव बहुत्र प्राप्यते। तथाहि “इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे” (केन. १.३) इति केनोपनिषदि “इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे” (ईशोपनिषत् १०) इति ईशावास्योपनिषदि चाम्नायते। किञ्च, सम्प्रदायसिद्धान्तज्ञानरहितानां निन्दा तु शास्त्रेषु परिलक्ष्यते। तथाहि “असम्प्रदायवित् सर्वशास्त्रविदपि मूर्खवदेव उपेक्षणीयः” (भ.गी.शा.भा १३.२) इति शङ्करभगवत्पादैः गीताभाष्ये सम्प्रदायपरम्पराज्ञानस्य महत्त्वख्यापनाद् विबुधानामपि शास्त्रार्थविदां सम्प्रदायज्ञानं नितरामपेक्षितम्, अन्यथा ते उपेक्षणीयाः स्युः। सम्प्रदायशब्देन भगवता अत्र गुरुशिष्यपरम्पराक्रमेण प्राप्ताः सिद्धान्ता एव अभिप्रेताः। प्रस्तुतेऽस्मिन् प्रबन्धे मुख्यासु उपनिषत्सु गुरुशिष्यपरम्परा कथं निगद्यते, किं च गुरुशिष्यपरम्परायाः महत्त्वमिति वर्ण्यते।

Published

2026-02-05