प्राचीनभारतीयशिक्षायां तथा ज्ञानसञ्चारे नारीणां भूमिका

Authors

  • Dr. Goutam Bhar

DOI:

https://doi.org/10.25215/1997811227.07

Abstract

प्राचीनभारतीयसमाजे नारीशिक्षा ज्ञानसञ्चारस्य अन्यतमा माध्यमा आसीत्। वैदिकयुगस्य गार्हस्थ्यजीवने, धर्मीयानुशासने, आध्यात्मिकसाधनायाञ्च नारीपुरु षाणामधिकारः आसीत्समानः। गार्गी, मैत्रेयी, लोपामुद्रा इत्येताः नारी-ऋषयः दर्शनधर्मनीतिविद्यासु प्रभूतमवदानं स्थापितवत्यः। तत्कालीने आश्रमव्य वस्थायां नार्य्यः ब्रह्मचर्यायां, ज्ञानार्जने, तपस्यायाञ्च आसीत्समाना धिकारिण्यः। एतेन समाजे तासां मर्यादा वर्धिता। किन्तु परवर्तिनि समये पितृतान्त्रिकसमाजस्य प्रभावः नारीणां शिक्षालाभे अन्तरायो जातः। तथापि काश्चन नार्य्यः तासां ज्ञानप्रज्ञाप्रभावेन समाजे उच्चस्थानं प्राप्तवत्यः। तेन प्राचीनभारतीय शिक्षाव्यवस्थायां नारीणां भूमिका केवलं गृहिणीसहधर्मिणीरूपाभ्यां वा नास्ताम्, किन्तु ज्ञानचर्चायाः सहयात्रीरूपेण तासां स्थानं चिरस्मरणीयमस्ति।

Published

2026-02-05