राष्ट्रस्य एकतायाः सम्प्रभूतायाश्च संरक्षणे ऋग्वेदस्य राजदर्शनम्

Authors

  • Pralay Sankar Adhikari

DOI:

https://doi.org/10.25215/1997811227.12

Abstract

वैदिकसाहित्यं विश्वस्य प्राचीनतमं साहित्यम्। वैदिकसाहित्यं वेदात् वेदाङ्गपर्यन्तं व्याप्तम्। वेदेषु संकलितविचाराणामुपरि विविधानि दर्शनानि उत्पन्नानि । भारतीयदर्शनं वेदान् अवलम्बते । ऋक्साम-यजुः-अथर्वाश्च चतुर्विधाः वेदाः । ऋग्वेदे वर्णिता शासनव्यवस्था राष्ट्रैकतायाः, अखण्डतायाः, शान्तेश्च कृते अतीवमहत्त्वपूर्णा अस्ति । ऋग्वेदे उल्लिखिता आदर्शराजनीतिः यादृशं प्रशासनीयविचारं प्रददाति यत् अद्यतनप्रजातन्त्रे अपि प्रासंगिकम् अस्ति । राष्ट्रस्य एकतायाः अखण्डतायाः च दृष्टिकोणतः राष्ट्रस्य शासनव्यवस्थायाः महत्त्वपूर्णं स्थानं भवति, यतः राष्ट्रस्य शासनव्यवस्था एव सुखदं शान्तं च वातावरणं प्रस्तूय राष्ट्रस्य विकाशाय सुरक्षां स्थिरतां च प्रदातुं कार्यं कर्तुं शक्नोति। ऋग्वेदकाले शासनं राज्ञा सभाध्यक्षेण वा सम्पादितम् अभवत् । राजा अपि गुणानाम् आधारेण चयनं भवति स्म, जनानां राज्ञः चयनस्य अधिकारः आसीत् । गुणाधारितेन सामान्यजनेन चितः शासकः सर्वदा राष्ट्राय हितकरः भवति, यतो हि उत्तमगुणयुक्तः राजा स्वप्रजाः प्रति बालवत् व्यवहारं करोति, तेषां सुखसुविधां च सर्वशक्त्या व्यवस्थापयति ।

Published

2026-02-05