न्यायशास्त्रदिशा आत्मतत्त्वम्
DOI:
https://doi.org/10.25215/1997811227.13Abstract
दुःखस्य आत्यन्तिकी निवृत्तिरेव मनुजानां परममुद्देश्यम्। सा च आत्मज्ञानादेव सम्भवतीति विभिन्नेषु दर्शनेषु आत्मनः स्वरूपं विस्तरेण आलोचितम् अस्ति। ज्ञानाधिकरणमात्मा इति आत्मनो लक्षणं तर्कसंग्रहकारेण प्रतिपादितम्। कुत्रचित् ग्रन्थेषु आत्मास्तित्वसाधनाय लिङ्गानि उल्लिखितानि। परमात्मा, जीवात्मा चेति आत्मनो भेदद्वयम्। जीवात्मनि चतुर्दश गुणाः, परमात्मनि च अष्टौ गुणाः सन्ति। तत्र परमात्मा अनुमानप्रमाणगम्यः। जीवात्मा तु प्रतिशरीरं भिन्नः, सर्वेषां मानसप्रत्यक्षानुभवगम्यः। उदयनाचार्येण परमात्मनः सिद्धौ नव युक्तयः प्रदर्शिताः। केचन शरीरस्य आत्मत्वं स्वीकुर्वन्ति, केचन इन्द्रियाणां, केचन च मनसः। परन्तु शरीरादीनाम् आत्मत्वस्वीकारे नानाविधाः दोषाः नैयायिकैः प्रदर्शिताः। नैयायिकनये आत्मनः परममहत्परिमाणित्वास्वीकारे च के के दोषाः सम्भवन्तीति बहवो विषया अस्मिन् प्रबन्धे पर्यालोचिताः।Published
2026-02-05
Issue
Section
Articles
