प्राचीननाट्यपरम्परायां ‘सरस्वती श्रुतिमहती महीयतामिति’ भरतवाक्यस्य सविस्तरं विश्लेषणम्
DOI:
https://doi.org/10.25215/1997811227.14Abstract
शोधप्रबन्धेऽस्मिन् अभिज्ञानशाकुन्तलनाटकीयभरतवाक्यस्य सरस्वती श्रुतिमहती महीयताम् इति पादमाधारीकृत्य विस्तारेण विचारः प्रस्तुतः। तत्रादौ नाट्यपरम्परायां भरतवाक्यस्य किं प्रयोजनमासीत् इति विचार्य अस्य अभिज्ञानशकुन्तलनाटकस्य भरतवाक्यविषये विस्तारेण विचारः प्रस्तुतः। ततः प्रस्तुतभरतवाक्यस्य पादमिदमाधारीकृत्य पदशः व्याख्यानं कृत्वा तेषां युक्तियुक्तता प्रतिपादिता। अन्तिमे च भरतवाक्यस्यास्य पाठभेदमाधारीकृत्यापि शोधप्रबन्धः लिखितुं शक्यते इति मार्गोऽपि प्रदर्शितः।Published
2026-02-05
Issue
Section
Articles
