आधुनिकभारते समाजविषयकचिन्तने महाभारतस्य प्रभावः

Authors

  • Dr. Krishna Gopal Patra

DOI:

https://doi.org/10.25215/1997811227.15

Abstract

भारतीयसंस्कृतेः सामाजिकचिन्तनस्य च मूलाधारो हि महाभारतम्। आधुनिकेऽपि भारते सामाजिकमूल्यानां नैतिकदृष्टीनां मानवीयसम्बन्धानां च निर्माणे महाभारतस्य प्रभावः नितान्तं व्यापकः अस्ति। धर्मो ह्यत्र विविधावस्थासापेक्षः, यश्च नैतिकद्वन्द्वनां समाधानाय उपयुज्यते। युधिष्ठिरस्य धर्मसंशयाः, कर्णस्य सामाजिकप्रवञ्चनम्, भीष्मस्य कर्तव्यनिष्ठा, द्यौपद्याः सभायां प्रश्नः, गान्धार्याः अन्यायविरोधः, कुन्त्याः मातृत्वनिर्णयः इत्येतादृशं तात्कालिकचिन्तनम् अद्यापि लोके जेगीयते। अतः महाभारतं न केवलं पौराणिककाव्यमात्रम्, अपि तु आधुनिकभारते सामाजिकन्यायस्य, नैतिकचिन्तनस्य, मानवीयमूल्यानां निरन्तरं प्रेरणास्रोतः वर्तते।

Published

2026-02-05